वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ वो꣢ म꣣हे꣢ म꣣त꣡यो꣢ यन्तु꣣ वि꣡ष्ण꣢वे म꣣रु꣡त्व꣢ते गिरि꣣जा꣡ ए꣢व꣣या꣡म꣢रुत् । प्र꣡ शर्धा꣢꣯य꣣ प्र꣡ यज्य꣢꣯वे सुखा꣣द꣡ये꣢ त꣣व꣡से भ꣣न्द꣡दि꣢ष्टये꣣ धु꣡नि꣢व्रताय꣣ श꣡व꣢से ॥४६२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥४६२॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । वः꣣ । महे꣢ । म꣣त꣡यः꣢ । य꣣न्तु । वि꣡ष्ण꣢꣯वे । म꣣रु꣡त्व꣢ते । गि꣣रिजाः꣢ । गि꣣रि । जाः꣢ । ए꣣वया꣡म꣢रुत् । ए꣣वया꣢ । म꣣रुत् । प्र꣢ । श꣡र्धा꣢꣯य । प्र । य꣡ज्य꣢꣯वे । सु꣣खाद꣡ये꣢ । सु꣣ । खाद꣡ये꣢ । त꣣व꣡से꣢ । भ꣣न्द꣡दि꣢ष्टये । भ꣣न्द꣢त् । इ꣣ष्टये । धु꣡नि꣢꣯व्रताय । धु꣡नि꣢꣯ । व्र꣣ताय । श꣡व꣢꣯से ॥४६२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 462 | (कौथोम) 5 » 2 » 3 » 6 | (रानायाणीय) 4 » 12 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र के देवता ‘मरुतः’ हैं। इसमें विष्णु और मरुतों की सहायता से आत्मिक और राष्ट्रिय उत्कर्ष पाने की प्रेरणा है।

पदार्थान्वयभाषाः -

प्रथम—अध्यात्म-पक्ष में। हे साथियों ! (महे) महान्, (मरुत्वते) प्राणयुक्त (विष्णवे) सारे शरीर में व्याप्त क्रियावाले अपने जीवात्मा के प्रोत्साहनार्थ (वः) तुम्हारी (मतयः) बुद्धियाँ वा वाणियाँ (प्र यन्तु) प्रवृत्त हों, जो जीवात्मा (गिरिजाः) पर्वत-सदृश शरीर में जन्मा हुआ और (यवयामरुत्) वेगवान् प्राणवाला है। (यज्यवे) शरीर-सञ्चालन रूप यज्ञ के कर्ता, (सुखादये) रोग आदियों को पूर्णतः खा जानेवाले (तवसे) शरीर से वृद्धिशील, (भन्ददिष्टये) सुखजनक शतायुष्य रूप इष्टि को करनेवाले, (धुनिव्रताय) शारीरिक और मानसिक दोषों को कंपित करनेवाले कर्म से युक्त (शवसे) बलवान् (शर्धाय) प्राणबल को पाने के लिए भी, तुम्हारी बुद्धियाँ वा वाणियाँ (प्र प्र यन्तु) प्रकृष्ट रूप से प्रवृत्त हों ॥ द्वितीय—राष्ट्र के पक्ष में। हे राष्ट्रवासियो ! (महे) महान् (मरुत्वते) प्रशस्त योद्धा सैनिकों से युक्त (विष्णवे) यानों द्वारा जल, स्थल, अन्तरिक्ष तीनों स्थानों में व्याप्त होनेवाले राजा के लिए (वः) तुम्हारी (मतयः) वाणियाँ (प्र यन्तु) प्रवृत्त हों, जो राजा (गिरिजाः) पर्वततुल्य सर्वोच्च पद पर अभिषिक्त और (एवया-मरुत्) वेगवान् सैनिकोंवाला है। और (यज्यवे) राष्ट्ररक्षा-रूप यज्ञ के अनुष्ठाता, (सुखादये) उत्कृष्ट पादत्राणों और हस्तत्राणों से युक्त, (तवसे) गतिमान्, कर्मण्य, (भन्ददिष्टये) संग्रामरूप यज्ञ से सुख पानेवाले, (धुनिव्रताय) शत्रुप्रकम्पक कर्मोंवाले, (शवसे) बलवान् (शर्धाय) वीर योद्धाओं के सैन्य के लिए भी, तुम्हारी वाणियाँ (प्र प्र यन्तु) अतिशय प्रवृत्त हों, अर्थात् तुम राजा की तथा उसके सैन्यगण की प्रशंसा करो और उन्हें उत्तम उद्बोधन दो ॥६॥ इस मन्त्र में श्लेषालङ्कार है ॥६॥

भावार्थभाषाः -

मनुष्य जब प्राणायाम से शारीरिक और मानसिक दोषों को जलाकर आत्मिक बल बढ़ाते हैं, तब सब सिद्धियाँ उन्हें हस्तगत हो जाती हैं। वैसे ही राष्ट्र के वीर सैनिक सब शत्रुओं को कँपा कर जब राजा के बल को बढ़ाते हैं, तब राष्ट्र में सब उन्नतियाँ भासित होने लगती हैं ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मरुतो देवताः। विष्णोर्मरुतां च साहाय्येनात्मिकं राष्ट्रियं चोत्कर्षं प्राप्तुं प्रेरयति।

पदार्थान्वयभाषाः -

प्रथमः—अध्यात्मपरः। हे सखायः ! (महे) महते, (मरुत्वते) प्राणवते (विष्णवे) सर्वस्मिन् शरीरे व्याप्तक्रियाय जीवात्मना जीवात्मनः प्रोत्साहनायेत्यर्थः (वः) युष्माकम् (मतयः) बुद्धयः वाचो वा। वाग् वै मतिः। श० ८।१।२।७। (प्र यन्तु) प्रवर्तन्ताम्, यः विष्णुः जीवात्मा (गिरिजाः) गिरौ पर्वतवद् विद्यमाने देहे गृहीतजन्मा, (एवयामरुत्) वेगवत्प्राणश्च वर्तते। एवेन वेगेन यान्तीति एवयाः। एवयाः वेगगामिनः मरुतः प्राणाः सहचराः यस्य स एवयामरुत्। किञ्च, (यज्यवे) शरीरसञ्चालनरूपयज्ञकर्त्रे, (सुखादये) रोगादीनां सुभक्षकाय, (तवसे) शरीरेण वृद्धिशीलाय। तौति वर्द्धते इति तवाः तस्मै। तु गतिवृद्धिहिंसासु सौत्रो धातुः, तत औणादिकः असुन् प्रत्ययः. (भन्ददिष्टये) भन्दन्ती सुखयन्ती इष्टिः शतसंवत्सरजीवनरूपा यस्मात् तस्मै, (धुनिव्रताय) धुनि शारीरमानसदोषप्रकम्पकं व्रतं कर्म यस्य तस्मै, (शवसे) बलवते (शर्धाय) मारुताय गणाय प्राणसमूहाय। शृधु प्रसहने चुरादिः, शर्धयति प्रसहते इति शर्धः तस्मै। वः मतयः बुद्धयो वाचो वा (प्र प्र) प्र यन्तु, प्र यन्तु, प्रकर्षेण प्रवर्तन्ताम् ॥ अथ द्वितीयः—राष्ट्रपरः। हे राष्ट्रवासिनः ! (महे) महते, (मरुत्वते) प्रशस्ताः मरुतः योद्धारः सैनिकाः अस्य सन्तीति तस्मै (विष्णवे) त्रिविक्रमाय जलस्थलाकाशगामिने नृपतये, तं स्तोतुं बोधयितुं वा (वः) युष्माकम् (मतयः) वाचः (प्र यन्तु) प्रवर्तन्ताम्, यः विष्णुः नृपतिः (गिरिजाः) पर्वतवद् राष्ट्रस्य सर्वोन्नते पदेऽभिषिक्तः (एवयामरुत्) वेगवत्सैनिकश्च वर्तते। किञ्च, (यज्यवे) राष्ट्ररक्षायज्ञस्य अनुष्ठात्रे, (सुखादये) उत्कृष्टाः खादयः पादत्राणाः हस्तत्राणाश्च यस्य तस्मै। अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयः॒। ऋ० ५।५४।११, हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ संद॑धे। ऋ० १।१६८।३ इति श्रुतिः। (तवसे) गतिमते, कर्मण्याय। तवतेर्गतिकर्मणः। असुन्। (भन्ददिष्टये) भन्दन्ती सुखयित्री इष्टिः संग्रामरूपा यस्य तस्मै, (धुनिव्रताय) शत्रुप्रकम्पककर्मणे, (शवसे) बलवते (शर्धाय) मारुताय वीरभटानां सैन्याय, वः मतयः वाचः (प्र प्र) अतिशयने प्रवर्तन्ताम्। यूयं विष्णुं राजानं तदीयं सैन्यगणं च प्रशंसत प्रोद्बोधयत चेत्यर्थः ॥२ क्री॒ळं वः॒ शर्धो॒ मारु॑तमनर्वा॒णं॑ रथे॒शुभ॑म्। कण्वा॑ अ॒भिप्रगा॑यत ॥ ऋ० १।३७।१, प्र वः॒ शर्धा॑य॒ धृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑। दे॒वत्तं॒ ब्रह्म॑ गायत ॥ ऋ० १।३७।४ इत्यादिवचनात् शर्धशब्देन मारुतो गण उच्यते। ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥ ऋ० १।८७।३ इति वचनाच्च मरुतां धुनिव्रतत्वम् ॥६॥ अत्र श्लेषालङ्कारः ॥६॥

भावार्थभाषाः -

मनुष्या यदा प्राणायामेन शारीरं मानसं च मलं दग्ध्वाऽऽत्मबलं वर्द्धयन्ति तदा सर्वाः सिद्धयस्तेषां हस्तगता भवन्ति। तथैव राष्ट्रस्य वीरसैनिकाः सर्वान् रिपून् प्रकम्प्य यदा राजबलं वर्द्धयन्ति तदा राष्ट्रे सर्वा उन्नतयो विभासन्ते ॥६॥

टिप्पणी: १. ऋ० ५।८७।१। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ‘अथ मनुष्यान् कथं किं प्राप्नोति’ इति विषये व्याख्यातवान्।